Original

नन्व् आत्मानं बहु विगणयन्न् आत्मनैवावलम्बे तत्कल्याणि त्वम् अपि नितरां मा गमः कातरत्वम् ।कस्यात्यन्तं सुखम् उपनतं दुःखम् एकान्ततो वा नीचैर् गच्छत्य् उपरि च दशा चक्रनेमिक्रमेण ॥ ४९ ॥

Segmented

नन्व् आत्मानम् बहु विगणयन्न् आत्मना एव अवलम्बे तत् कल्याणि त्वम् अपि नितराम् मा गमः कातर-त्वम् कस्य अत्यन्तम् सुखम् उपनतम् दुःखम् एकान्ततो वा नीचैः गच्छत्य् उपरि च दशा चक्र-नेमि-क्रमेण

Analysis

Word Lemma Parse
नन्व् ननु pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
विगणयन्न् विगणय् pos=va,g=m,c=1,n=s,f=part
आत्मना आत्मन् pos=n,g=m,c=3,n=s
एव एव pos=i
अवलम्बे अवलम्ब् pos=v,p=1,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
कल्याणि कल्याण pos=a,g=f,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
नितराम् नितराम् pos=i
मा मा pos=i
गमः गम् pos=v,p=2,n=s,l=lun_unaug
कातर कातर pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
कस्य pos=n,g=m,c=6,n=s
अत्यन्तम् अत्यन्त pos=a,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
उपनतम् उपनम् pos=va,g=n,c=1,n=s,f=part
दुःखम् दुःख pos=n,g=n,c=1,n=s
एकान्ततो एकान्ततः pos=i
वा वा pos=i
नीचैः नीचैस् pos=i
गच्छत्य् गम् pos=v,p=3,n=s,l=lat
उपरि उपरि pos=i
pos=i
दशा दशा pos=n,g=f,c=1,n=s
चक्र चक्र pos=n,comp=y
नेमि नेमि pos=n,comp=y
क्रमेण क्रम pos=n,g=m,c=3,n=s