Original

भित्त्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः ।आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः पूर्वं स्पृष्टं यदि किल भवेद् अङ्गम् एभिस् तवेति ॥ ४७ ॥

Segmented

भित्त्वा सद्यः किसलय-पुटान् देवदारु-द्रुमाणाम् ये तद्-क्षीर-स्रुति-सुरभयः दक्षिणेन प्रवृत्ताः आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रि-वाताः पूर्वम् स्पृष्टम् यदि किल भवेद् अङ्गम् एभिस् ते इति

Analysis

Word Lemma Parse
भित्त्वा भिद् pos=vi
सद्यः सद्यस् pos=i
किसलय किसलय pos=n,comp=y
पुटान् पुट pos=n,g=m,c=2,n=p
देवदारु देवदारु pos=n,comp=y
द्रुमाणाम् द्रुम pos=n,g=m,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
तद् तद् pos=n,comp=y
क्षीर क्षीर pos=n,comp=y
स्रुति स्रुति pos=n,comp=y
सुरभयः सुरभि pos=a,g=m,c=1,n=p
दक्षिणेन दक्षिणेन pos=i
प्रवृत्ताः प्रवृत् pos=va,g=m,c=1,n=p,f=part
आलिङ्ग्यन्ते आलिङ्ग् pos=v,p=3,n=p,l=lat
गुणवति गुणवत् pos=a,g=f,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
तुषाराद्रि तुषाराद्रि pos=n,comp=y
वाताः वात pos=n,g=m,c=1,n=p
पूर्वम् पूर्वम् pos=i
स्पृष्टम् स्पृश् pos=va,g=n,c=1,n=s,f=part
यदि यदि pos=i
किल किल pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अङ्गम् अङ्ग pos=n,g=n,c=1,n=s
एभिस् इदम् pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
इति इति pos=i