Original

त्वाम् आलिख्य प्रणयकुपितां धातुरागैः शिलायाम् आत्मानं ते चरणपतितं यावद् इच्छामि कर्तुम् ।अस्रैस् तावन् मुहुर् उपचितैर् दृष्टिर् आलुप्यते मे क्रूरस् तस्मिन्न् अपि न सहते संगमं नौ कृतान्तः ॥ ४५ ॥

Segmented

त्वाम् आलिख्य प्रणय-कुपिताम् धातु-रागैः शिलायाम् आत्मानम् ते चरण-पतितम् यावद् इच्छामि कर्तुम् अस्रैस् तावन् मुहुः उपचितैः दृष्टिः आलुप्यते मे क्रूरस् तस्मिन्न् अपि न सहते संगमम् नौ कृतान्तः

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
आलिख्य आलिख् pos=vi
प्रणय प्रणय pos=n,comp=y
कुपिताम् कुप् pos=va,g=f,c=2,n=s,f=part
धातु धातु pos=n,comp=y
रागैः राग pos=n,g=m,c=3,n=p
शिलायाम् शिला pos=n,g=f,c=7,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
चरण चरण pos=n,comp=y
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
यावद् यावत् pos=i
इच्छामि इष् pos=v,p=1,n=s,l=lat
कर्तुम् कृ pos=vi
अस्रैस् अस्र pos=n,g=n,c=3,n=p
तावन् तावत् pos=i
मुहुः मुहुर् pos=i
उपचितैः उपचि pos=va,g=n,c=3,n=p,f=part
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
आलुप्यते आलुप् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
क्रूरस् क्रूर pos=a,g=m,c=1,n=s
तस्मिन्न् तद् pos=n,g=n,c=7,n=s
अपि अपि pos=i
pos=i
सहते सह् pos=v,p=3,n=s,l=lat
संगमम् संगम pos=n,g=m,c=2,n=s
नौ मद् pos=n,g=,c=6,n=d
कृतान्तः कृतान्त pos=n,g=m,c=1,n=s