Original

ताम् आयुष्मन् मम च वचनाद् आत्मनश् चोपकर्तुं ब्रूया एवं तव सहचरो रामगिर्याश्रमस्थः ।अव्यापन्नः कुशलम् अबले पृच्छति त्वां वियुक्तः पूर्वाभाष्यं सुलभविपदां प्राणिनाम् एतद् एव ॥ ४१ ॥

Segmented

ताम् आयुष्मन् मम च वचनाद् आत्मनः च उपकृ ब्रूया एवम् तव सहचरो रामगिरि-आश्रम-स्थः अव्यापन्नः कुशलम् अबले पृच्छति त्वाम् वियुक्तः पूर्व-आभाषितव्यम् सुलभ-विपद् प्राणिनाम् एतद् एव

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आयुष्मन् आयुष्मत् pos=a,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
वचनाद् वचन pos=n,g=n,c=5,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
उपकृ उपकृ pos=vi
ब्रूया ब्रू pos=v,p=2,n=s,l=vidhilin
एवम् एवम् pos=i
तव त्वद् pos=n,g=,c=6,n=s
सहचरो सहचर pos=n,g=m,c=1,n=s
रामगिरि रामगिरि pos=n,comp=y
आश्रम आश्रम pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
अव्यापन्नः अव्यापन्न pos=a,g=m,c=1,n=s
कुशलम् कुशल pos=n,g=n,c=2,n=s
अबले अबला pos=n,g=f,c=8,n=s
पृच्छति प्रच्छ् pos=v,p=3,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
वियुक्तः वियुज् pos=va,g=m,c=1,n=s,f=part
पूर्व पूर्व pos=n,comp=y
आभाषितव्यम् आभाष् pos=va,g=n,c=1,n=s,f=krtya
सुलभ सुलभ pos=a,comp=y
विपद् विपद् pos=n,g=m,c=6,n=p
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
एतद् एतद् pos=n,g=n,c=1,n=s
एव एव pos=i