Original

ताम् उत्थाप्य स्वजलकणिकाशीतलेनानिलेन प्रत्याश्वस्तां समम् अभिनवैर् जालकैर् मालतीनाम् ।विद्युद्गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे वक्तुं धीरः स्तनितवचनैर् मानिनीं प्रक्रमेथाः ॥ ३८ ॥

Segmented

ताम् उत्थाप्य स्व-जल-कणिका-शीतलेन अनिलेन प्रत्याश्वस्ताम् समम् अभिनवैः जालकैः मालतीनाम् विद्युत्-गर्भः स्तिमित-नयनाम् त्वद्-सनाथे गवाक्षे वक्तुम् धीरः स्तनित-वचनैः मानिनीम् प्रक्रमेथाः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
उत्थाप्य उत्थापय् pos=vi
स्व स्व pos=a,comp=y
जल जल pos=n,comp=y
कणिका कणिका pos=n,comp=y
शीतलेन शीतल pos=a,g=m,c=3,n=s
अनिलेन अनिल pos=n,g=m,c=3,n=s
प्रत्याश्वस्ताम् प्रत्याश्वस् pos=va,g=f,c=2,n=s,f=part
समम् समम् pos=i
अभिनवैः अभिनव pos=a,g=n,c=3,n=p
जालकैः जालक pos=n,g=n,c=3,n=p
मालतीनाम् मालती pos=n,g=f,c=6,n=p
विद्युत् विद्युत् pos=n,comp=y
गर्भः गर्भ pos=n,g=m,c=1,n=s
स्तिमित स्तिमित pos=a,comp=y
नयनाम् नयन pos=n,g=f,c=2,n=s
त्वद् त्वद् pos=n,comp=y
सनाथे सनाथ pos=a,g=m,c=7,n=s
गवाक्षे गवाक्ष pos=n,g=m,c=7,n=s
वक्तुम् वच् pos=vi
धीरः धीर pos=a,g=m,c=1,n=s
स्तनित स्तनित pos=n,comp=y
वचनैः वचन pos=n,g=n,c=3,n=p
मानिनीम् मानिनी pos=n,g=f,c=2,n=s
प्रक्रमेथाः प्रक्रम् pos=v,p=2,n=s,l=vidhilin