Original

सा संन्यस्ताभरणम् अबला पेशलं धारयन्ती शय्योत्सङ्गे निहितम् असकृद् दुःखदुःखेन गात्रम् ।त्वाम् अप्य् अस्रं नवजलमयं मोचयिष्यत्य् अवश्यं प्रायः सर्वो भवति करुणावृत्तिर् आर्द्रान्तरात्मा ॥ ३३ ॥

Segmented

सा संन्यस्त-आभरणम् अबला पेशलम् धारयन्ती शय्या-उत्सङ्गे निहितम् असकृद् दुःख-दुःखेन गात्रम् त्वाम् अप्य् अस्रम् नव-जल-मयम् मोचयिष्यत्य् अवश्यम् प्रायः सर्वो भवति करुणा-वृत्तिः आर्द्र-अन्तरात्मा

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
संन्यस्त संन्यस् pos=va,comp=y,f=part
आभरणम् आभरण pos=n,g=n,c=2,n=s
अबला अबला pos=n,g=f,c=1,n=s
पेशलम् पेशल pos=a,g=n,c=2,n=s
धारयन्ती धारय् pos=va,g=f,c=1,n=s,f=part
शय्या शय्या pos=n,comp=y
उत्सङ्गे उत्सङ्ग pos=n,g=m,c=7,n=s
निहितम् निधा pos=va,g=n,c=2,n=s,f=part
असकृद् असकृत् pos=i
दुःख दुःख pos=n,comp=y
दुःखेन दुःख pos=n,g=n,c=3,n=s
गात्रम् गात्र pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अप्य् अपि pos=i
अस्रम् अस्र pos=n,g=n,c=2,n=s
नव नव pos=a,comp=y
जल जल pos=n,comp=y
मयम् मय pos=a,g=n,c=2,n=s
मोचयिष्यत्य् मोचय् pos=v,p=3,n=s,l=lrt
अवश्यम् अवश्यम् pos=i
प्रायः प्रायस् pos=i
सर्वो सर्व pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
करुणा करुणा pos=n,comp=y
वृत्तिः वृत्ति pos=n,g=m,c=1,n=s
आर्द्र आर्द्र pos=a,comp=y
अन्तरात्मा अन्तरात्मन् pos=n,g=m,c=1,n=s