Original

रक्ताशोकश् चलकिसलयः केसरश् चात्र कान्तः प्रत्यासन्नौ कुरुवकवृतेर् माधवीमण्डपस्य ।एकः सख्यास् तव सह मया वामपादाभिलाषी काङ्क्षत्य् अन्यो वदनमदिरां दोहदच्छद्मनास्याः ॥ १८ ॥

Segmented

रक्त-अशोकः चल-किसलयः केसरः च अत्र कान्तः प्रत्यासन्नौ कुरवक-वृति माधवी-मण्डपस्य एकः सख्यास् तव सह मया वाम-पाद-अभिलाषी काङ्क्षत्य् अन्यो वदन-मदिराम् दोहद-छद्मना अस्याः

Analysis

Word Lemma Parse
रक्त रक्त pos=a,comp=y
अशोकः अशोक pos=n,g=m,c=1,n=s
चल चल pos=a,comp=y
किसलयः किसलय pos=n,g=m,c=1,n=s
केसरः केसर pos=n,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
कान्तः कान्त pos=a,g=m,c=1,n=s
प्रत्यासन्नौ प्रत्यासद् pos=va,g=m,c=1,n=d,f=part
कुरवक कुरवक pos=n,comp=y
वृति वृति pos=n,g=m,c=6,n=s
माधवी माधवी pos=n,comp=y
मण्डपस्य मण्डप pos=n,g=m,c=6,n=s
एकः एक pos=n,g=m,c=1,n=s
सख्यास् सखी pos=n,g=f,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
सह सह pos=i
मया मद् pos=n,g=,c=3,n=s
वाम वाम pos=a,comp=y
पाद पाद pos=n,comp=y
अभिलाषी अभिलाषिन् pos=a,g=m,c=1,n=s
काङ्क्षत्य् काङ्क्ष् pos=v,p=3,n=s,l=lat
अन्यो अन्य pos=n,g=m,c=1,n=s
वदन वदन pos=n,comp=y
मदिराम् मदिरा pos=n,g=f,c=2,n=s
दोहद दोहद pos=n,comp=y
छद्मना छद्मन् pos=n,g=n,c=3,n=s
अस्याः इदम् pos=n,g=f,c=6,n=s