Original

तत्रागारं धनपतिगृहान् उत्तरेणास्मदीयं दूराल् लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन ।यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे हस्तप्राप्यस्तवकनमितो बालमन्दारवृक्षः ॥ १५ ॥

Segmented

तत्र आगारम् धनपति-गृहान् उत्तरेण अस्मदीयम् दूराल् लक्ष्यम् सुरपति-धनुः-चारु तोरणेन यस्य उपान्ते कृतक-तनयः कान्तया वर्धितो मे हस्त-प्राप्य-स्तबक-नमितः बाल-मन्दार-वृक्षः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आगारम् आगार pos=n,g=n,c=1,n=s
धनपति धनपति pos=n,comp=y
गृहान् गृह pos=n,g=m,c=2,n=p
उत्तरेण उत्तरेण pos=i
अस्मदीयम् अस्मदीय pos=a,g=n,c=1,n=s
दूराल् दूरात् pos=i
लक्ष्यम् लक्षय् pos=va,g=n,c=1,n=s,f=krtya
सुरपति सुरपति pos=n,comp=y
धनुः धनुस् pos=n,comp=y
चारु चारु pos=a,g=n,c=3,n=s
तोरणेन तोरण pos=n,g=n,c=3,n=s
यस्य यद् pos=n,g=n,c=6,n=s
उपान्ते उपान्त pos=n,g=n,c=7,n=s
कृतक कृतक pos=a,comp=y
तनयः तनय pos=n,g=m,c=1,n=s
कान्तया कान्ता pos=n,g=f,c=3,n=s
वर्धितो वर्धय् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
हस्त हस्त pos=n,comp=y
प्राप्य प्राप् pos=va,comp=y,f=krtya
स्तबक स्तबक pos=n,comp=y
नमितः नमय् pos=va,g=m,c=1,n=s,f=part
बाल बाल pos=a,comp=y
मन्दार मन्दार pos=n,comp=y
वृक्षः वृक्ष pos=n,g=m,c=1,n=s