Original

अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठैर् उद्गायद्भिर् धनपतियशः किंनरैर् यत्र सार्धम् ।वैभ्राजाख्यं विबुधवनितावारमुख्यसहाया बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति ॥ १० ॥

Segmented

अक्षय्य-अन्तर्भवन-निधयः प्रत्यहम् रक्त-कण्ठैः उद्गायद्भिः धनपति-यशः किंनरैः यत्र सार्धम् वैभ्राज-आख्यम् विबुध-वनिता-वारमुख्या-सहायाः बद्ध-आलापाः बहिस् उपवनम् कामिनो निर्विशन्ति

Analysis

Word Lemma Parse
अक्षय्य अक्षय्य pos=a,comp=y
अन्तर्भवन अन्तर्भवन pos=n,comp=y
निधयः निधि pos=n,g=m,c=1,n=p
प्रत्यहम् प्रत्यहम् pos=i
रक्त रञ्ज् pos=va,comp=y,f=part
कण्ठैः कण्ठ pos=n,g=m,c=3,n=p
उद्गायद्भिः उद्गा pos=va,g=m,c=3,n=p,f=part
धनपति धनपति pos=n,comp=y
यशः यशस् pos=n,g=n,c=2,n=s
किंनरैः किंनर pos=n,g=m,c=3,n=p
यत्र यत्र pos=i
सार्धम् सार्धम् pos=i
वैभ्राज वैभ्राज pos=n,comp=y
आख्यम् आख्या pos=n,g=n,c=2,n=s
विबुध विबुध pos=n,comp=y
वनिता वनिता pos=n,comp=y
वारमुख्या वारमुख्या pos=n,comp=y
सहायाः सहाय pos=n,g=m,c=1,n=p
बद्ध बन्ध् pos=va,comp=y,f=part
आलापाः आलाप pos=n,g=m,c=1,n=p
बहिस् बहिस् pos=i
उपवनम् उपवन pos=n,g=n,c=2,n=s
कामिनो कामिन् pos=n,g=m,c=1,n=p
निर्विशन्ति निर्विश् pos=v,p=3,n=p,l=lat