Original

त्वाम् आरूढं पवनपदवीम् उद्गृहीतालकान्ताः प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययाद् आश्वसन्त्यः ।कः संनद्धे विरहविधुरां त्वय्य् उपेक्षेत जायां न स्याद् अन्यो ऽप्य् अहम् इव जनो यः पराधीनवृत्तिः ॥ ८ ॥

Segmented

त्वाम् आरूढम् पवन-पदवीम् उद्गृहीत-अलक-अन्ताः प्रेक्षिष्यन्ते पथिक-वनिताः प्रत्ययात् आश्वसन्त्यः कः संनद्धे विरह-विधुराम् त्वयि उपेक्षेत जायाम् न स्यात् अन्यः अपि अहम् इव जनो यः पर-अधीन-वृत्तिः

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
आरूढम् आरुह् pos=va,g=m,c=2,n=s,f=part
पवन पवन pos=n,comp=y
पदवीम् पदवी pos=n,g=f,c=2,n=s
उद्गृहीत उद्ग्रह् pos=va,comp=y,f=part
अलक अलक pos=n,comp=y
अन्ताः अन्त pos=n,g=f,c=1,n=p
प्रेक्षिष्यन्ते प्रेक्ष् pos=v,p=3,n=p,l=lrt
पथिक पथिक pos=n,comp=y
वनिताः वनिता pos=n,g=f,c=1,n=p
प्रत्ययात् प्रत्यय pos=n,g=m,c=5,n=s
आश्वसन्त्यः आश्वस् pos=va,g=f,c=1,n=p,f=part
कः pos=n,g=m,c=1,n=s
संनद्धे संनह् pos=va,g=m,c=7,n=s,f=part
विरह विरह pos=n,comp=y
विधुराम् विधुर pos=a,g=f,c=2,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
उपेक्षेत उपेक्ष् pos=v,p=3,n=s,l=vidhilin
जायाम् जाया pos=n,g=f,c=2,n=s
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
अन्यः अन्य pos=n,g=m,c=1,n=s
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s
इव इव pos=i
जनो जन pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
अधीन अधीन pos=a,comp=y
वृत्तिः वृत्ति pos=n,g=m,c=1,n=s