Original

तत्रावश्यं वलयकुलिशोद्धट्टनोद्गीर्णतोयं नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् ।ताभ्यो मोक्षस् तव यदि सखे घर्मलब्धस्य न स्यात् क्रीडालोलाः श्रवणपरुषैर् गर्जितैर् भाययेस् ताः ॥ ६४ ॥

Segmented

तत्र अवश्यम् वलय-कुलिश-उद्घट्टन-उद्गीर्ण-तोयम् नेष्यन्ति त्वाम् सुर-युवतयः यन्त्र-धारागृह-त्वम् ताभ्यो मोक्षस् तव यदि सखे घर्म-लब्धस्य न स्यात् क्रीडा-लोलाः श्रवण-परुषैः गर्जितैः भाययेस् ताः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अवश्यम् अवश्यम् pos=i
वलय वलय pos=n,comp=y
कुलिश कुलिश pos=n,comp=y
उद्घट्टन उद्घट्टन pos=n,comp=y
उद्गीर्ण उद्गृ pos=va,comp=y,f=part
तोयम् तोय pos=n,g=m,c=2,n=s
नेष्यन्ति नी pos=v,p=3,n=p,l=lrt
त्वाम् त्वद् pos=n,g=,c=2,n=s
सुर सुर pos=n,comp=y
युवतयः युवति pos=n,g=f,c=1,n=p
यन्त्र यन्त्र pos=n,comp=y
धारागृह धारागृह pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
ताभ्यो तद् pos=n,g=f,c=5,n=p
मोक्षस् मोक्ष pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
यदि यदि pos=i
सखे सखि pos=n,g=,c=8,n=s
घर्म घर्म pos=n,comp=y
लब्धस्य लभ् pos=va,g=m,c=6,n=s,f=part
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
क्रीडा क्रीडा pos=n,comp=y
लोलाः लोल pos=a,g=f,c=2,n=p
श्रवण श्रवण pos=n,comp=y
परुषैः परुष pos=a,g=n,c=3,n=p
गर्जितैः गर्जित pos=n,g=n,c=3,n=p
भाययेस् भायय् pos=v,p=2,n=s,l=vidhilin
ताः तद् pos=n,g=f,c=2,n=p