Original

शब्दायन्ते मधुरम् अनिलैः कीचकाः पूर्यमाणाः संरक्ताभिस् त्रिपुरविजयो गीयते किंनराभिः ।निर्ह्रादस् ते मुरज इव चेत् कन्दरेषु ध्वनिः स्यात् संगीतार्थो ननु पशुपतेस् तत्र भावी समग्रः ॥ ५९ ॥

Segmented

शब्दायन्ते मधुरम् अनिलैः कीचकाः पूर्यमाणाः संरक्ताभिस् त्रिपुर-विजयः गीयते किंनरीभिः निर्ह्रादस् ते मुरज इव चेत् कन्दरेषु ध्वनिः स्यात् संगीत-अर्थः ननु पशुपतेस् तत्र भावी समग्रः

Analysis

Word Lemma Parse
शब्दायन्ते शब्दाय् pos=v,p=3,n=p,l=lat
मधुरम् मधुर pos=a,g=n,c=2,n=s
अनिलैः अनिल pos=n,g=m,c=3,n=p
कीचकाः कीचक pos=n,g=m,c=1,n=p
पूर्यमाणाः पृ pos=va,g=m,c=1,n=p,f=part
संरक्ताभिस् संरञ्ज् pos=va,g=f,c=3,n=p,f=part
त्रिपुर त्रिपुर pos=n,comp=y
विजयः विजय pos=n,g=m,c=1,n=s
गीयते गा pos=v,p=3,n=s,l=lat
किंनरीभिः किंनरी pos=n,g=f,c=3,n=p
निर्ह्रादस् निर्ह्राद pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मुरज मुरज pos=n,g=m,c=1,n=s
इव इव pos=i
चेत् चेद् pos=i
कन्दरेषु कन्दर pos=n,g=m,c=7,n=p
ध्वनिः ध्वनि pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
संगीत संगीत pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
ननु ननु pos=i
पशुपतेस् पशुपति pos=n,g=m,c=6,n=s
तत्र तत्र pos=i
भावी भाविन् pos=a,g=m,c=1,n=s
समग्रः समग्र pos=a,g=m,c=1,n=s