Original

ये संरम्भोत्पतनरभसाः स्वाङ्गभङ्गाय तस्मिन् मुक्ताध्वानं सपदि शरभा लङ्घयेयुर् भवन्तम् ।तान् कुर्वीथास् तुमुलकरकावृष्टिपातावकीर्णन् के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ ५७ ॥

Segmented

ये संरम्भ-उत्पतन-रभसाः स्व-अङ्ग-भङ्गाय तस्मिन् मुक्त-अध्वानम् सपदि शरभा लङ्घयेयुः भवन्तम् तान् कुर्वीथास् तुमुल-करक-आवृष्टि-पात-अवकीर्णान् के वा न स्युः परिभव-पदम् निष्फल-आरम्भ-यत्नाः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
संरम्भ संरम्भ pos=n,comp=y
उत्पतन उत्पतन pos=n,comp=y
रभसाः रभस pos=a,g=m,c=1,n=p
स्व स्व pos=a,comp=y
अङ्ग अङ्ग pos=n,comp=y
भङ्गाय भङ्ग pos=n,g=m,c=4,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
मुक्त मुच् pos=va,comp=y,f=part
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
सपदि सपदि pos=i
शरभा शरभ pos=n,g=m,c=1,n=p
लङ्घयेयुः लङ्घय् pos=v,p=3,n=p,l=vidhilin
भवन्तम् भवत् pos=a,g=m,c=2,n=s
तान् तद् pos=n,g=m,c=2,n=p
कुर्वीथास् कृ pos=v,p=2,n=s,l=vidhilin
तुमुल तुमुल pos=a,comp=y
करक करक pos=n,comp=y
आवृष्टि आवृष्टि pos=n,comp=y
पात पात pos=n,comp=y
अवकीर्णान् अवकृ pos=va,g=m,c=2,n=p,f=part
के pos=n,g=m,c=1,n=p
वा वा pos=i
pos=i
स्युः अस् pos=v,p=3,n=p,l=vidhilin
परिभव परिभव pos=n,comp=y
पदम् पद pos=n,g=n,c=2,n=s
निष्फल निष्फल pos=a,comp=y
आरम्भ आरम्भ pos=n,comp=y
यत्नाः यत्न pos=n,g=m,c=1,n=p