Original

आसीनानां सुरभितशिलं नाभिगन्धैर् मृगाणां तस्या एव प्रभवम् अचलं प्राप्य गौरं तुषारैः ।वक्ष्यस्य् अध्वश्रमविनयेन तस्य शृङ्गे निषण्णः शोभां शुभ्रां त्रिनयनवृषोत्खातपङ्कोपमेयम् ॥ ५५ ॥

Segmented

आसीनानाम् सुरभित-शिलम् नाभि-गन्धैः मृगाणाम् तस्याः एव प्रभवम् अचलम् प्राप्य गौरम् तुषारैः वक्ष्यस्य् अध्व-श्रम-विनयेन तस्य शृङ्गे निषण्णः शोभाम् शुभ्राम् त्रिनयन-वृष-उत्खात-पङ्क-उपमेयम्

Analysis

Word Lemma Parse
आसीनानाम् आस् pos=va,g=m,c=6,n=p,f=part
सुरभित सुरभय् pos=va,comp=y,f=part
शिलम् शिला pos=n,g=m,c=2,n=s
नाभि नाभि pos=n,comp=y
गन्धैः गन्ध pos=n,g=m,c=3,n=p
मृगाणाम् मृग pos=n,g=m,c=6,n=p
तस्याः तद् pos=n,g=f,c=6,n=s
एव एव pos=i
प्रभवम् प्रभव pos=n,g=m,c=2,n=s
अचलम् अचल pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
गौरम् गौर pos=a,g=m,c=2,n=s
तुषारैः तुषार pos=n,g=m,c=3,n=p
वक्ष्यस्य् वच् pos=v,p=2,n=s,l=lrt
अध्व अध्वन् pos=n,comp=y
श्रम श्रम pos=n,comp=y
विनयेन विनय pos=n,g=m,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शृङ्गे शृङ्ग pos=n,g=n,c=7,n=s
निषण्णः निषद् pos=va,g=m,c=1,n=s,f=part
शोभाम् शोभा pos=n,g=f,c=2,n=s
शुभ्राम् शुभ्र pos=a,g=f,c=2,n=s
त्रिनयन त्रिनयन pos=n,comp=y
वृष वृष pos=n,comp=y
उत्खात उत्खन् pos=va,comp=y,f=part
पङ्क पङ्क pos=n,comp=y
उपमेयम् उपमा pos=va,g=m,c=2,n=s,f=krtya