Original

हित्वा हालाम् अभिमतरसां रेवतीलोचनाङ्कां बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे ।कृत्वा तासाम् अधिगमम् अपां सौम्य सारस्वतीनाम् अन्तः शुद्धस् त्वम् अपि भविता वर्णमात्रेण कृष्णः ॥ ५२ ॥

Segmented

हित्वा हालाम् अभिमत-रसाम् रेवती-लोचन-अङ्काम् बन्धु-प्रीत्या समर-विमुखः लाङ्गली याः सिषेवे कृत्वा तासाम् अधिगमम् अपाम् सौम्य सारस्वतीनाम् अन्तः शुद्धस् त्वम् अपि भविता वर्ण-मात्रेण कृष्णः

Analysis

Word Lemma Parse
हित्वा हा pos=vi
हालाम् हाला pos=n,g=f,c=2,n=s
अभिमत अभिमन् pos=va,comp=y,f=part
रसाम् रस pos=n,g=f,c=2,n=s
रेवती रेवती pos=n,comp=y
लोचन लोचन pos=n,comp=y
अङ्काम् अङ्क pos=n,g=f,c=2,n=s
बन्धु बन्धु pos=n,comp=y
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
समर समर pos=n,comp=y
विमुखः विमुख pos=a,g=m,c=1,n=s
लाङ्गली लाङ्गलिन् pos=n,g=m,c=1,n=s
याः यद् pos=n,g=f,c=2,n=p
सिषेवे सेव् pos=v,p=3,n=s,l=lit
कृत्वा कृ pos=vi
तासाम् तद् pos=n,g=f,c=6,n=p
अधिगमम् अधिगम pos=n,g=m,c=2,n=s
अपाम् अप् pos=n,g=n,c=6,n=p
सौम्य सौम्य pos=a,g=m,c=8,n=s
सारस्वतीनाम् सारस्वत pos=a,g=f,c=6,n=p
अन्तः अन्तर् pos=i
शुद्धस् शुध् pos=va,g=m,c=1,n=s,f=part
त्वम् त्व pos=n,g=n,c=1,n=s
अपि अपि pos=i
भविता भू pos=v,p=3,n=s,l=lrt
वर्ण वर्ण pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
कृष्णः कृष्ण pos=a,g=m,c=1,n=s