Original

धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः ।इत्य् औत्सुक्याद् अपरिगणयन् गुह्यकस् तं ययाचे कामार्ता हि प्रकृतिकृपणाश् चेतनाचेतएषु ॥ ५ ॥

Segmented

धूम-ज्योतिः-सलिल-मरुताम् संनिपातः क्व मेघः संदेश-अर्थाः क्व पटु-करणैः प्राणिभिः प्रापणीयाः इति औत्सुक्यात् अपरिगणयन् गुह्यकः तम् ययाचे काम-आर्ताः हि प्रकृति-कृपणाः चेतन-अचेतनेषु

Analysis

Word Lemma Parse
धूम धूम pos=n,comp=y
ज्योतिः ज्योतिस् pos=n,comp=y
सलिल सलिल pos=n,comp=y
मरुताम् मरुत् pos=n,g=m,c=6,n=p
संनिपातः संनिपात pos=n,g=m,c=1,n=s
क्व क्व pos=i
मेघः मेघ pos=n,g=m,c=1,n=s
संदेश संदेश pos=n,comp=y
अर्थाः अर्थ pos=n,g=m,c=1,n=p
क्व क्व pos=i
पटु पटु pos=a,comp=y
करणैः करण pos=n,g=m,c=3,n=p
प्राणिभिः प्राणिन् pos=n,g=m,c=3,n=p
प्रापणीयाः प्राप् pos=va,g=m,c=1,n=p,f=krtya
इति इति pos=i
औत्सुक्यात् औत्सुक्य pos=n,g=n,c=5,n=s
अपरिगणयन् अपरिगणयत् pos=a,g=m,c=1,n=s
गुह्यकः गुह्यक pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
ययाचे याच् pos=v,p=3,n=s,l=lit
काम काम pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
हि हि pos=i
प्रकृति प्रकृति pos=n,comp=y
कृपणाः कृपण pos=a,g=m,c=1,n=p
चेतन चेतन pos=a,comp=y
अचेतनेषु अचेतन pos=a,g=m,c=7,n=p