Original

ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति ।धौतापाङ्गं हरशशिरुचा पावकेस् तं मयूरं पश्चाद् अद्रिग्रहणगुरुभिर् गर्जितैर् नर्तयेथाः ॥ ४७ ॥

Segmented

ज्योतिः-लेखा-वलयिन् गलितम् यस्य बर्हम् भवानी पुत्र-प्रेम्णा कुवलय-दल-प्रापिन् कर्णे करोति धौत-अपाङ्गम् हर-शशि-रुचा पावकेस् तम् मयूरम् पश्चाद् अद्रि-ग्रहण-गुरुभिः गर्जितैः नर्तयेथाः

Analysis

Word Lemma Parse
ज्योतिः ज्योतिस् pos=n,comp=y
लेखा लेखा pos=n,comp=y
वलयिन् वलयिन् pos=a,g=n,c=1,n=s
गलितम् गल् pos=va,g=n,c=1,n=s,f=part
यस्य यद् pos=n,g=m,c=6,n=s
बर्हम् बर्ह pos=n,g=n,c=1,n=s
भवानी भवानी pos=n,g=f,c=1,n=s
पुत्र पुत्र pos=n,comp=y
प्रेम्णा प्रेमन् pos=n,g=,c=3,n=s
कुवलय कुवलय pos=n,comp=y
दल दल pos=n,comp=y
प्रापिन् प्रापिन् pos=a,g=n,c=2,n=s
कर्णे कर्ण pos=n,g=m,c=7,n=s
करोति कृ pos=v,p=3,n=s,l=lat
धौत धाव् pos=va,comp=y,f=part
अपाङ्गम् अपाङ्ग pos=n,g=m,c=2,n=s
हर हर pos=n,comp=y
शशि शशिन् pos=n,comp=y
रुचा रुच् pos=n,g=f,c=3,n=s
पावकेस् पावकि pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
मयूरम् मयूर pos=n,g=m,c=2,n=s
पश्चाद् पश्चात् pos=i
अद्रि अद्रि pos=n,comp=y
ग्रहण ग्रहण pos=n,comp=y
गुरुभिः गुरु pos=a,g=n,c=3,n=p
गर्जितैः गर्जित pos=n,g=n,c=3,n=p
नर्तयेथाः नर्तय् pos=v,p=2,n=s,l=vidhilin