Original

तस्याः किंचित् करधृतम् इव प्राप्त्वाईरशाखं हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् ।प्रस्थानं ते कथम् अपि सखे लम्बमानस्य भावि ज्ञातास्वादो विवृतजघनां को विहातुं समर्था ॥ ४४ ॥

Segmented

तस्याः किंचित् कर-धृतम् इव प्राप्त-वानीर-शाखम् हृत्वा नीलम् सलिल-वसनम् मुक्त-रोधस्-नितम्बम् प्रस्थानम् ते कथम् अपि सखे लम्बमानस्य भावि ज्ञात-आस्वादः विवृत-जघनाम् को विहातुम् समर्थः

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
कर कर pos=n,comp=y
धृतम् धृ pos=va,g=n,c=2,n=s,f=part
इव इव pos=i
प्राप्त प्राप् pos=va,comp=y,f=part
वानीर वानीर pos=n,comp=y
शाखम् शाखा pos=n,g=n,c=2,n=s
हृत्वा हृ pos=vi
नीलम् नील pos=a,g=n,c=2,n=s
सलिल सलिल pos=n,comp=y
वसनम् वसन pos=n,g=n,c=2,n=s
मुक्त मुच् pos=va,comp=y,f=part
रोधस् रोधस् pos=n,comp=y
नितम्बम् नितम्ब pos=n,g=n,c=2,n=s
प्रस्थानम् प्रस्थान pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कथम् कथम् pos=i
अपि अपि pos=i
सखे सखि pos=n,g=,c=8,n=s
लम्बमानस्य लम्ब् pos=va,g=m,c=6,n=s,f=part
भावि भाविन् pos=a,g=n,c=1,n=s
ज्ञात ज्ञा pos=va,comp=y,f=part
आस्वादः आस्वाद pos=n,g=m,c=1,n=s
विवृत विवृ pos=va,comp=y,f=part
जघनाम् जघन pos=n,g=f,c=2,n=s
को pos=n,g=m,c=1,n=s
विहातुम् विहा pos=vi
समर्थः समर्थ pos=a,g=m,c=1,n=s