Original

गम्भीरायाः पयसि सरितश् चेतसीव प्रसन्ने छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् ।तस्माद् अस्याः कुमुदविशदान्य् अर्हसि त्वं न धैर्यान् मोघीकर्तुं चटुलशफोरोद्वर्तनप्रेक्षितानि ॥ ४३ ॥

Segmented

गम्भीरायाः पयसि सरितः चेतसि इव प्रसन्ने छाया-आत्मा अपि प्रकृति-सुभगः लप्स्यते ते प्रवेशम् तस्माद् अस्याः कुमुद-विशदानि अर्हसि त्वम् न धैर्यान् मोघीकर्तुम्

Analysis

Word Lemma Parse
गम्भीरायाः गम्भीर pos=a,g=f,c=6,n=s
पयसि पयस् pos=n,g=n,c=7,n=s
सरितः सरित् pos=n,g=f,c=6,n=s
चेतसि चेतस् pos=n,g=n,c=7,n=s
इव इव pos=i
प्रसन्ने प्रसद् pos=va,g=n,c=7,n=s,f=part
छाया छाया pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
अपि अपि pos=i
प्रकृति प्रकृति pos=n,comp=y
सुभगः सुभग pos=a,g=m,c=1,n=s
लप्स्यते लभ् pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
प्रवेशम् प्रवेश pos=n,g=m,c=2,n=s
तस्माद् तस्मात् pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
कुमुद कुमुद pos=n,comp=y
विशदानि विशद pos=a,g=n,c=2,n=p
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
धैर्यान् धैर्य pos=n,g=n,c=5,n=s
मोघीकर्तुम् मोघीकृ pos=vi