Original

तस्मिन् काले नयनसलिअं योषितां खण्डितानां शान्तिं नेयं प्रणयिभिर् अतो वर्त्म भानोस् त्यजाशु ।प्रालेयास्त्रं कमलवदनात् सोऽपि हर्तुं नलिन्याःप्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पभ्यसूयः ॥ ४२ ॥

Segmented

तस्मिन् काले नयन-सलिलम् योषिताम् खण्डितानाम् शान्तिम् नेयम् प्रणयिभिः अतो वर्त्म भानोस् त्यज आशु प्रालेय-अस्त्रम् कमल-वदनात् सो ऽपि हर्तुम् नलिन्याः प्रत्यावृत्तः त्वे कररुधि स्याद् अनल्प-अभ्यसूयः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
नयन नयन pos=n,comp=y
सलिलम् सलिल pos=n,g=n,c=1,n=s
योषिताम् योषित् pos=n,g=f,c=6,n=p
खण्डितानाम् खण्डय् pos=va,g=f,c=6,n=p,f=part
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
नेयम् नी pos=va,g=n,c=1,n=s,f=krtya
प्रणयिभिः प्रणयिन् pos=a,g=m,c=3,n=p
अतो अतस् pos=i
वर्त्म वर्त्मन् pos=n,g=n,c=2,n=s
भानोस् भानु pos=n,g=m,c=6,n=s
त्यज त्यज् pos=v,p=2,n=s,l=lot
आशु आशु pos=i
प्रालेय प्रालेय pos=n,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
कमल कमल pos=n,comp=y
वदनात् वदन pos=n,g=n,c=5,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
हर्तुम् हृ pos=vi
नलिन्याः नलिनी pos=n,g=f,c=6,n=s
प्रत्यावृत्तः प्रत्यावृत् pos=va,g=m,c=1,n=s,f=part
त्वे त्वद् pos=n,g=,c=7,n=s
कररुधि कररुध् pos=a,g=m,c=7,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अनल्प अनल्प pos=a,comp=y
अभ्यसूयः अभ्यसूया pos=n,g=m,c=1,n=s