Original

तां कस्यांचिद् भवनवलभौ सुप्तपारावतायां नीत्वा रात्रिं चिरविलसनात् खिन्नविद्युत्कलत्रः ।दृष्टे सूर्ये पुनरपि भवान् वाहयेदध्वशेषं मन्दायन्ते न खलु सुहृदामभ्युपतार्थकृत्याः ॥ ४१ ॥

Segmented

ताम् कस्यांचिद् भवन-वलभौ सुप्त-पारावतायाम् नीत्वा रात्रिम् चिर-विलसनात् खिन्न-विद्युत्-कलत्रः दृष्टे सूर्ये पुनः अपि भवान् वाहयेत् अध्व-शेषम् मन्दायन्ते न खलु सुहृदाम् अभ्युपेता अर्थ-कृत्याः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
कस्यांचिद् कश्चित् pos=n,g=f,c=7,n=s
भवन भवन pos=n,comp=y
वलभौ वलभि pos=n,g=f,c=7,n=s
सुप्त स्वप् pos=va,comp=y,f=part
पारावतायाम् पारावत pos=n,g=f,c=7,n=s
नीत्वा नी pos=vi
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
चिर चिर pos=a,comp=y
विलसनात् विलसन pos=n,g=n,c=5,n=s
खिन्न खिद् pos=va,comp=y,f=part
विद्युत् विद्युत् pos=n,comp=y
कलत्रः कलत्र pos=n,g=m,c=1,n=s
दृष्टे दृश् pos=va,g=m,c=7,n=s,f=part
सूर्ये सूर्य pos=n,g=m,c=7,n=s
पुनः पुनर् pos=i
अपि अपि pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
वाहयेत् वाहय् pos=v,p=3,n=s,l=vidhilin
अध्व अध्वन् pos=n,comp=y
शेषम् शेष pos=n,g=m,c=2,n=s
मन्दायन्ते मन्दाय् pos=v,p=3,n=p,l=lat
pos=i
खलु खलु pos=i
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
अभ्युपेता अभ्युपे pos=va,g=f,c=1,n=s,f=part
अर्थ अर्थ pos=n,comp=y
कृत्याः कृत्य pos=n,g=m,c=1,n=p