Original

अप्य् अन्यस्मिञ् जलधर महाकालम् आसाद्य काले स्थातव्यं ते नयनविषयं यावद् अत्येति भानुः ।कुर्वन् सन्ध्यावलिपटहतां शूलिनः श्लाघनीयाम् आमन्द्राणां फलम् अविकलं लप्स्यसे गर्जितानाम् ॥ ३७ ॥

Segmented

अपि अन्यस्मिन् जलधरैः महा-कालम् आसाद्य काले स्थातव्यम् ते नयनविषयम् यावद् अत्येति भानुः कुर्वन् संध्याबलि-पटहताम् शूलिनः श्लाघनीयाम् आमन्द्राणाम् फलम् अविकलम् लप्स्यसे गर्जितानाम्

Analysis

Word Lemma Parse
अपि अपि pos=i
अन्यस्मिन् अन्य pos=n,g=m,c=7,n=s
जलधरैः जलधर pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
काले काल pos=n,g=m,c=7,n=s
स्थातव्यम् स्था pos=va,g=n,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
नयनविषयम् नयनविषय pos=n,g=m,c=2,n=s
यावद् यावत् pos=i
अत्येति अती pos=v,p=3,n=s,l=lat
भानुः भानु pos=n,g=m,c=1,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
संध्याबलि संध्याबलि pos=n,comp=y
पटहताम् पटहता pos=n,g=f,c=2,n=s
शूलिनः शूलिन् pos=n,g=m,c=6,n=s
श्लाघनीयाम् श्लाघ् pos=va,g=f,c=2,n=s,f=krtya
आमन्द्राणाम् आमन्द्र pos=a,g=m,c=6,n=p
फलम् फल pos=n,g=n,c=2,n=s
अविकलम् अविकल pos=a,g=n,c=2,n=s
लप्स्यसे लभ् pos=v,p=2,n=s,l=lrt
गर्जितानाम् गर्ज् pos=va,g=m,c=6,n=p,f=part