Original

भर्तुः कण्ठच्छविर् इति गणैः सादरं वीक्ष्यमाणः पुण्यं यायास् त्रिभुवनगुरोर् धाम चण्डीश्वरस्य ।धूतोद्यानं कुवलयरजोगन्धिभिर् गन्धवत्यास् तोयक्रीडानिरतयुवतिस्नानतिक्तैर् मरुद्भिः ॥ ३६ ॥

Segmented

भर्तुः कण्ठ-छविः इति गणैः सादरम् वीक्ष्यमाणः पुण्यम् यायाः त्रिभुवन-गुरोः धाम चण्डीश्वरस्य धुत-उद्यानम् कुवलय-रजः-गन्धिभिः गन्धवत्यास् तोय-क्रीडा-निरम्त-युवति-स्नान-तिक्तैः मरुद्भिः

Analysis

Word Lemma Parse
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
कण्ठ कण्ठ pos=n,comp=y
छविः छवि pos=n,g=f,c=1,n=s
इति इति pos=i
गणैः गण pos=n,g=m,c=3,n=p
सादरम् सादर pos=a,g=n,c=2,n=s
वीक्ष्यमाणः वीक्ष् pos=va,g=m,c=1,n=s,f=part
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
यायाः या pos=v,p=2,n=s,l=vidhilin
त्रिभुवन त्रिभुवन pos=n,comp=y
गुरोः गुरु pos=n,g=m,c=6,n=s
धाम धामन् pos=n,g=n,c=2,n=s
चण्डीश्वरस्य चण्डीश्वर pos=n,g=m,c=6,n=s
धुत धू pos=va,comp=y,f=part
उद्यानम् उद्यान pos=n,g=n,c=2,n=s
कुवलय कुवलय pos=n,comp=y
रजः रजस् pos=n,comp=y
गन्धिभिः गन्धि pos=a,g=m,c=3,n=p
गन्धवत्यास् गन्धवती pos=n,g=f,c=6,n=s
तोय तोय pos=n,comp=y
क्रीडा क्रीडा pos=n,comp=y
निरम्त निरम् pos=va,comp=y,f=part
युवति युवति pos=n,comp=y
स्नान स्नान pos=n,comp=y
तिक्तैः तिक्त pos=a,g=m,c=3,n=p
मरुद्भिः मरुत् pos=n,g=,c=3,n=p