Original

प्रद्योतस्य प्रियदुहितरं वत्सराजो ऽत्र जह्रे हैमं तालद्रुमवनम् अभूद् अत्र तस्यैव राज्ञः ।अत्रोद्भ्रान्तः किल नलगिरिः स्तम्भम् उत्पाट्य दर्पाद् इत्य् आगन्तून् रमयति जनो यत्र बन्धून् अभिज्ञः ॥ ३४ ॥

Segmented

प्रद्योतस्य प्रिय-दुहितरम् वत्स-राजः ऽत्र जह्रे हैमम् ताल-द्रुम-वनम् अभूद् अत्र तस्य एव राज्ञः अत्र उद्भ्रान्तः किल नलगिरिः स्तम्भम् उत्पाट्य दर्पाद् इत्य् आगन्तून् रमयति जनो यत्र बन्धून् अभिज्ञः

Analysis

Word Lemma Parse
प्रद्योतस्य प्रद्योत pos=n,g=m,c=6,n=s
प्रिय प्रिय pos=a,comp=y
दुहितरम् दुहितृ pos=n,g=f,c=2,n=s
वत्स वत्स pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
जह्रे हृ pos=v,p=3,n=s,l=lit
हैमम् हैम pos=a,g=n,c=1,n=s
ताल ताल pos=n,comp=y
द्रुम द्रुम pos=n,comp=y
वनम् वन pos=n,g=n,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
अत्र अत्र pos=i
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
अत्र अत्र pos=i
उद्भ्रान्तः उद्भ्रम् pos=va,g=m,c=1,n=s,f=part
किल किल pos=i
नलगिरिः नलगिरि pos=n,g=m,c=1,n=s
स्तम्भम् स्तम्भ pos=n,g=m,c=2,n=s
उत्पाट्य उत्पाटय् pos=vi
दर्पाद् दर्प pos=n,g=m,c=5,n=s
इत्य् इति pos=i
आगन्तून् आगन्तु pos=a,g=m,c=2,n=p
रमयति रमय् pos=v,p=3,n=s,l=lat
जनो जन pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
बन्धून् बन्धु pos=n,g=m,c=2,n=p
अभिज्ञः अभिज्ञ pos=a,g=m,c=1,n=s