Original

हारांस् तारांस् तरलगुटिकान् कोटिशः शङ्कशुक्तीः शष्पश्यामान् मरकतमणीन् उन्मयूखप्ररोहान् ।दृष्ट्वा यस्यां विपणिरचितान् विद्रुमाणां च भङ्गान् संलक्ष्यन्ते सलिलनिधयस् तोयमात्रावशेषाः ॥ ३३ ॥

Segmented

हारांस् तारांस् तरल-गुटिका कोटिशः शङ्ख-शुक्तीः शष्प-श्यामान् मरकत-मणीन् उन्मयूख-प्ररोहान् दृष्ट्वा यस्याम् विपणि-रचितान् विद्रुमाणाम् च भङ्गान् संलक्ष्यन्ते सलिलनिधयस् तोय-मात्र-अवशेषाः

Analysis

Word Lemma Parse
हारांस् हार pos=n,g=m,c=2,n=p
तारांस् तार pos=n,g=m,c=2,n=p
तरल तरल pos=a,comp=y
गुटिका गुटिका pos=n,g=m,c=2,n=p
कोटिशः कोटिशस् pos=i
शङ्ख शङ्ख pos=n,comp=y
शुक्तीः शुक्ति pos=n,g=f,c=2,n=p
शष्प शष्प pos=n,comp=y
श्यामान् श्याम pos=a,g=m,c=2,n=p
मरकत मरकत pos=n,comp=y
मणीन् मणि pos=n,g=m,c=2,n=p
उन्मयूख उन्मयूख pos=a,comp=y
प्ररोहान् प्ररोह pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
यस्याम् यद् pos=n,g=f,c=7,n=s
विपणि विपणि pos=n,comp=y
रचितान् रचय् pos=va,g=m,c=2,n=p,f=part
विद्रुमाणाम् विद्रुम pos=n,g=m,c=6,n=p
pos=i
भङ्गान् भङ्ग pos=n,g=m,c=2,n=p
संलक्ष्यन्ते संलक्षय् pos=v,p=3,n=p,l=lat
सलिलनिधयस् सलिलनिधि pos=n,g=m,c=1,n=p
तोय तोय pos=n,comp=y
मात्र मात्र pos=n,comp=y
अवशेषाः अवशेष pos=n,g=m,c=1,n=p