Original

पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैर् नीडारम्भैर् गृहबलिभुजाम् आकुलग्रामचैत्याः ।त्वय्य् आसन्ने परिणतफलश्यामजम्बूवनान्ताः संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ २४ ॥

Segmented

पाण्डु-छाया-उपवन-वृतयः केतकैः सूची-भिन्नैः नीड-आरम्भैः गृह-बलिभुजाम् आकुल-ग्राम-चैत्याः त्वय्य् आसन्ने परिणत-फल-श्याम-जम्बू-वनान्ताः सम्पत्स्यन्ते कतिपय-दिन-स्थायिन्-हंसाः दशार्णाः

Analysis

Word Lemma Parse
पाण्डु पाण्डु pos=a,comp=y
छाया छाया pos=n,comp=y
उपवन उपवन pos=n,comp=y
वृतयः वृति pos=n,g=m,c=1,n=p
केतकैः केतक pos=n,g=m,c=3,n=p
सूची सूचि pos=n,comp=y
भिन्नैः भिद् pos=va,g=m,c=3,n=p,f=part
नीड नीड pos=n,comp=y
आरम्भैः आरम्भ pos=n,g=m,c=3,n=p
गृह गृह pos=n,comp=y
बलिभुजाम् बलिभुज् pos=n,g=m,c=6,n=p
आकुल आकुल pos=a,comp=y
ग्राम ग्राम pos=n,comp=y
चैत्याः चैत्य pos=n,g=m,c=1,n=p
त्वय्य् त्वद् pos=n,g=,c=7,n=s
आसन्ने आसद् pos=va,g=m,c=7,n=s,f=part
परिणत परिणम् pos=va,comp=y,f=part
फल फल pos=n,comp=y
श्याम श्याम pos=a,comp=y
जम्बू जम्बु pos=n,comp=y
वनान्ताः वनान्त pos=n,g=m,c=1,n=p
सम्पत्स्यन्ते सम्पद् pos=v,p=3,n=p,l=lrt
कतिपय कतिपय pos=a,comp=y
दिन दिन pos=n,comp=y
स्थायिन् स्थायिन् pos=a,comp=y
हंसाः हंस pos=n,g=m,c=1,n=p
दशार्णाः दशार्ण pos=n,g=m,c=1,n=p