Original

नीपं दृष्ट्वा हरितकपिशं केसरैर् अर्धरूढैर् आविर्भूतप्रथममुकुलाः कन्दलीश् चानुकच्छम् ।जग्ध्वारण्येष्व् अधिकसुरभिं गन्धम् आघ्राय चोर्व्याः सारङ्गास् ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥ २१ ॥

Segmented

नीपम् दृष्ट्वा हरित-कपिशम् केसरैः अर्ध-रूढैः आविर्भूत-प्रथम-मुकुलाः कन्दलीः च अनुकच्छम् जग्ध्वा अरण्येषु अधिक-सुरभिम् गन्धम् आघ्राय च उर्व्याः सारङ्गास् ते जल-लव-मुचः सूचयिष्यन्ति मार्गम्

Analysis

Word Lemma Parse
नीपम् नीप pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
हरित हरित pos=a,comp=y
कपिशम् कपिश pos=a,g=m,c=2,n=s
केसरैः केसर pos=n,g=n,c=3,n=p
अर्ध अर्ध pos=n,comp=y
रूढैः रुह् pos=va,g=n,c=3,n=p,f=part
आविर्भूत आविर्भू pos=va,comp=y,f=part
प्रथम प्रथम pos=a,comp=y
मुकुलाः मुकुल pos=n,g=f,c=2,n=p
कन्दलीः कन्दली pos=n,g=f,c=2,n=p
pos=i
अनुकच्छम् अनुकच्छम् pos=i
जग्ध्वा जक्ष् pos=vi
अरण्येषु अरण्य pos=n,g=n,c=7,n=p
अधिक अधिक pos=a,comp=y
सुरभिम् सुरभि pos=a,g=m,c=2,n=s
गन्धम् गन्ध pos=n,g=m,c=2,n=s
आघ्राय आघ्रा pos=vi
pos=i
उर्व्याः उर्वी pos=n,g=f,c=6,n=s
सारङ्गास् सारङ्ग pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
जल जल pos=n,comp=y
लव लव pos=n,comp=y
मुचः मुच् pos=a,g=m,c=1,n=p
सूचयिष्यन्ति सूचय् pos=v,p=3,n=p,l=lrt
मार्गम् मार्ग pos=n,g=m,c=2,n=s