Original

त्वाम् आसारप्रशमितवनोपप्लवं साधु मूर्ध्ना वक्ष्यत्य् अध्वश्रमपरिगतं सानुमान् आम्रकूटः ।न क्षुद्रो ऽपि प्रथमसुकृतापेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुखः किं पुनर् यस् तत्थोच्चैः ॥ १७ ॥

Segmented

त्वाम् आसार-प्रशमित-वन-उपप्लवम् साधु मूर्ध्ना वक्ष्यत्य् अध्व-श्रम-परिगतम् सानुमान् आम्रकूटः न क्षुद्रो अपि प्रथम-सुकृत-अपेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुखः किम् पुनः यस् तथा उच्चैस्

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
आसार आसार pos=n,comp=y
प्रशमित प्रशमय् pos=va,comp=y,f=part
वन वन pos=n,comp=y
उपप्लवम् उपप्लव pos=n,g=m,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
वक्ष्यत्य् वच् pos=v,p=3,n=s,l=lrt
अध्व अध्वन् pos=n,comp=y
श्रम श्रम pos=n,comp=y
परिगतम् परिगम् pos=va,g=m,c=2,n=s,f=part
सानुमान् सानुमत् pos=a,g=m,c=1,n=s
आम्रकूटः आम्रकूट pos=n,g=m,c=1,n=s
pos=i
क्षुद्रो क्षुद्र pos=a,g=m,c=1,n=s
अपि अपि pos=i
प्रथम प्रथम pos=a,comp=y
सुकृत सुकृत pos=n,comp=y
अपेक्षया अपेक्षा pos=n,g=f,c=3,n=s
संश्रयाय संश्रय pos=n,g=m,c=4,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
मित्रे मित्र pos=n,g=m,c=7,n=s
भवति भू pos=v,p=3,n=s,l=lat
विमुखः विमुख pos=a,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
यस् यद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
उच्चैस् उच्चैस् pos=i