Original

त्वय्य् आयन्तं कृषिफलम् इति भ्रूविकारान् अभिज्ञैः प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः ।सद्यःसीरोत्कषणसुरभि क्षेत्रम् आरुह्य मालं किंचित् पश्चाद् व्रज लघुगतिर् भूय एवोत्तरेण ॥ १६ ॥

Segmented

त्वे आयत्तम् कृषि-फलम् इति भ्रू-विकारान् अभिज्ञैः प्रीति-स्निग्धैः जनपद-वधू-लोचनैः पीयमानः सद्यः सीर-उत्कषण-सुरभि क्षेत्रम् आरुह्य मालम् किंचित् पश्चाद् व्रज लघु-गतिः भूय एव उत्तरेण

Analysis

Word Lemma Parse
त्वे त्वद् pos=n,g=,c=7,n=s
आयत्तम् आयत् pos=va,g=n,c=1,n=s,f=part
कृषि कृषि pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
इति इति pos=i
भ्रू भ्रू pos=n,comp=y
विकारान् विकार pos=n,g=m,c=2,n=p
अभिज्ञैः अभिज्ञ pos=a,g=n,c=3,n=p
प्रीति प्रीति pos=n,comp=y
स्निग्धैः स्निग्ध pos=a,g=n,c=3,n=p
जनपद जनपद pos=n,comp=y
वधू वधू pos=n,comp=y
लोचनैः लोचन pos=n,g=n,c=3,n=p
पीयमानः पा pos=va,g=m,c=1,n=s,f=part
सद्यः सद्यस् pos=i
सीर सीर pos=n,comp=y
उत्कषण उत्कषण pos=n,comp=y
सुरभि सुरभि pos=a,g=n,c=2,n=s
क्षेत्रम् क्षेत्र pos=n,g=n,c=2,n=s
आरुह्य आरुह् pos=vi
मालम् माल pos=n,g=m,c=2,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
पश्चाद् पश्चात् pos=i
व्रज व्रज् pos=v,p=2,n=s,l=lot
लघु लघु pos=a,comp=y
गतिः गति pos=n,g=m,c=1,n=s
भूय भूयस् pos=i
एव एव pos=i
उत्तरेण उत्तरेण pos=i