Original

कर्तुं यच् च प्रभवति महीम् उच्छिलीन्ध्राम् अवन्ध्यां तच् छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः ।आ कैलासाद् बिसकिसलयच्छेदपाथेयवन्तः संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ ११ ॥

Segmented

कर्तुम् यत् च प्रभवति महीम् उच्छिलीन्ध्राम् अवन्ध्याम् तत् श्रुत्वा ते श्रवण-सुभगम् गर्जितम् मानस-उत्काः आ कैलासात् बिस-किसलय-छेद-पाथेयवन्तः सम्पत्स्यन्ते नभसि भवतो राजहंसाः सहायाः

Analysis

Word Lemma Parse
कर्तुम् कृ pos=vi
यत् यद् pos=n,g=n,c=1,n=s
pos=i
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
महीम् मही pos=n,g=f,c=2,n=s
उच्छिलीन्ध्राम् उच्छिलीन्ध्र pos=a,g=f,c=2,n=s
अवन्ध्याम् अवन्ध्य pos=a,g=f,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
ते तद् pos=n,g=m,c=1,n=p
श्रवण श्रवण pos=n,comp=y
सुभगम् सुभग pos=a,g=n,c=2,n=s
गर्जितम् गर्जित pos=n,g=n,c=2,n=s
मानस मानस pos=n,comp=y
उत्काः उत्क pos=a,g=m,c=1,n=p
pos=i
कैलासात् कैलास pos=n,g=m,c=5,n=s
बिस बिस pos=n,comp=y
किसलय किसलय pos=n,comp=y
छेद छेद pos=n,comp=y
पाथेयवन्तः पाथेयवत् pos=a,g=m,c=1,n=p
सम्पत्स्यन्ते सम्पद् pos=v,p=3,n=p,l=lrt
नभसि नभस् pos=n,g=n,c=7,n=s
भवतो भवत् pos=a,g=m,c=6,n=s
राजहंसाः राजहंस pos=n,g=m,c=1,n=p
सहायाः सहाय pos=n,g=m,c=1,n=p