Original

मन्दं मन्दं नुदति पवनश् चानुकूलो यथा त्वां वामश् चायं नदति मधुरं चातकस् ते सगन्धः ।गर्भाधानक्षणपरिचयान् नूनम् आबद्धमालाः सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥ १० ॥

Segmented

मन्दम् मन्दम् नुदति पवनः च अनुकूलः यथा त्वाम् वामः च अयम् नदति मधुरम् चातकः ते सगन्धः गर्भाधान-क्षण-परिचयात् नूनम् आबद्ध-मालाः सेविष्यन्ते नयन-सुभगम् खे भवन्तम् बलाकाः

Analysis

Word Lemma Parse
मन्दम् मन्द pos=a,g=n,c=2,n=s
मन्दम् मन्द pos=a,g=n,c=2,n=s
नुदति नुद् pos=v,p=3,n=s,l=lat
पवनः पवन pos=n,g=m,c=1,n=s
pos=i
अनुकूलः अनुकूल pos=a,g=m,c=1,n=s
यथा यथा pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
वामः वाम pos=a,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
नदति नद् pos=v,p=3,n=s,l=lat
मधुरम् मधुर pos=a,g=n,c=2,n=s
चातकः चातक pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सगन्धः सगन्ध pos=a,g=m,c=1,n=s
गर्भाधान गर्भाधान pos=n,comp=y
क्षण क्षण pos=n,comp=y
परिचयात् परिचय pos=n,g=m,c=5,n=s
नूनम् नूनम् pos=i
आबद्ध आबन्ध् pos=va,comp=y,f=part
मालाः माला pos=n,g=f,c=1,n=p
सेविष्यन्ते सेव् pos=v,p=3,n=p,l=lrt
नयन नयन pos=n,comp=y
सुभगम् सुभग pos=a,g=m,c=2,n=s
खे pos=n,g=n,c=7,n=s
भवन्तम् भवत् pos=a,g=m,c=2,n=s
बलाकाः बलाका pos=n,g=f,c=1,n=p