Original

भ्रातरं निहतं दृष्ट्वा सुषेणः क्रोधमूर्छितः ।अभ्यवर्षच्छरैस्तूर्णं पदातिं पाण्डुनन्दनम् ॥ ४० ॥

Segmented

भ्रातरम् निहतम् दृष्ट्वा सुषेणः क्रोध-मूर्छितः अभ्यवर्षत् शरैः तूर्णम् पदातिम् पाण्डु-नन्दनम्

Analysis

Word Lemma Parse
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
सुषेणः सुषेण pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
अभ्यवर्षत् अभिवृष् pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
पदातिम् पदाति pos=n,g=m,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
नन्दनम् नन्दन pos=n,g=m,c=2,n=s