Original

संजय उवाच ।तत्प्रभग्नं बलं दृष्ट्वा मद्रराजः प्रतापवान् ।उवाच सारथिं तूर्णं चोदयाश्वान्महाजवान् ॥ १ ॥

Segmented

संजय उवाच तत् प्रभग्नम् बलम् दृष्ट्वा मद्र-राजः प्रतापवान् उवाच सारथिम् तूर्णम् चोदय अश्वान् महा-जवान्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
प्रभग्नम् प्रभञ्ज् pos=va,g=n,c=2,n=s,f=part
बलम् बल pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सारथिम् सारथि pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
चोदय चोदय् pos=v,p=2,n=s,l=lot
अश्वान् अश्व pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
जवान् जव pos=n,g=m,c=2,n=p