Original

हयानां सादिभिः सार्धं पतितानां महीतले ।राशयः संप्रदृश्यन्ते गिरिमात्रास्ततस्ततः ॥ २८ ॥

Segmented

हयानाम् सादिभिः सार्धम् पतितानाम् मही-तले राशयः सम्प्रदृश्यन्ते गिरि-मात्राः ततस् ततस्

Analysis

Word Lemma Parse
हयानाम् हय pos=n,g=m,c=6,n=p
सादिभिः सादिन् pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
पतितानाम् पत् pos=va,g=m,c=6,n=p,f=part
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
राशयः राशि pos=n,g=m,c=1,n=p
सम्प्रदृश्यन्ते सम्प्रदृश् pos=v,p=3,n=p,l=lat
गिरि गिरि pos=n,comp=y
मात्राः मात्रा pos=n,g=m,c=1,n=p
ततस् ततस् pos=i
ततस् ततस् pos=i