Original

ते गजा घनसंकाशाः पेतुरुर्व्यां समन्ततः ।वज्ररुग्णा इव बभुः पर्वता युगसंक्षये ॥ २७ ॥

Segmented

ते गजा घन-संकाशाः पेतुः उर्व्याम् समन्ततः वज्र-रुग्णाः इव बभुः पर्वता युग-संक्षये

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
गजा गज pos=n,g=m,c=1,n=p
घन घन pos=n,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
उर्व्याम् उर्वी pos=n,g=f,c=7,n=s
समन्ततः समन्ततः pos=i
वज्र वज्र pos=n,comp=y
रुग्णाः रुज् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
बभुः भा pos=v,p=3,n=p,l=lit
पर्वता पर्वत pos=n,g=m,c=1,n=p
युग युग pos=n,comp=y
संक्षये संक्षय pos=n,g=m,c=7,n=s