Original

यो ह्येकः पाण्डवैर्युध्येद्यो वा युध्यन्तमुत्सृजेत् ।स पञ्चभिर्भवेद्युक्तः पातकैः सोपपातकैः ।अन्योन्यं परिरक्षद्भिर्योद्धव्यं सहितैश्च नः ॥ ९ ॥

Segmented

यो हि एकः पाण्डवैः युध्येद् यो वा युध्यन्तम् उत्सृजेत् स पञ्चभिः भवेद् युक्तः पातकैः स उपपातकैः अन्योन्यम् परिरक्षद्भिः योद्धव्यम् सहितैः च नः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
एकः एक pos=n,g=m,c=1,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
युध्येद् युध् pos=v,p=3,n=s,l=vidhilin
यो यद् pos=n,g=m,c=1,n=s
वा वा pos=i
युध्यन्तम् युध् pos=va,g=m,c=2,n=s,f=part
उत्सृजेत् उत्सृज् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
भवेद् भू pos=v,p=3,n=s,l=vidhilin
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
पातकैः पातक pos=n,g=m,c=3,n=p
pos=i
उपपातकैः उपपातक pos=n,g=m,c=3,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
परिरक्षद्भिः परिरक्ष् pos=va,g=m,c=3,n=p,f=part
योद्धव्यम् युध् pos=va,g=n,c=1,n=s,f=krtya
सहितैः सहित pos=a,g=m,c=3,n=p
pos=i
नः मद् pos=n,g=,c=6,n=p