Original

स मया समनुप्राप्तो नास्मि शोच्यः कथंचन ।कृतं भवद्भिः सदृशमनुरूपमिवात्मनः ।यतितं विजये नित्यं दैवं तु दुरतिक्रमम् ॥ २९ ॥

Segmented

स मया समनुप्राप्तो न अस्मि शोच्यः कथंचन कृतम् भवद्भिः सदृशम् अनुरूपम् इव आत्मनः यतितम् विजये नित्यम् दैवम् तु दुरतिक्रमम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
समनुप्राप्तो समनुप्राप् pos=va,g=m,c=1,n=s,f=part
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
शोच्यः शोचय् pos=va,g=m,c=1,n=s,f=krtya
कथंचन कथंचन pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
भवद्भिः भवत् pos=a,g=m,c=3,n=p
सदृशम् सदृश pos=a,g=n,c=1,n=s
अनुरूपम् अनुरूप pos=a,g=n,c=1,n=s
इव इव pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
यतितम् यत् pos=va,g=n,c=1,n=s,f=part
विजये विजय pos=n,g=m,c=7,n=s
नित्यम् नित्यम् pos=i
दैवम् दैव pos=n,g=n,c=1,n=s
तु तु pos=i
दुरतिक्रमम् दुरतिक्रम pos=a,g=n,c=1,n=s