Original

इन्द्रेणेव हि वृत्रस्य वधं परमसंयुगे ।त्वया कृतममन्यन्त शत्रोर्वधमिमं जनाः ॥ ८ ॥

Segmented

इन्द्रेण इव हि वृत्रस्य वधम् परम-संयुगे त्वया कृतम् अमन्यन्त शत्रोः वधम् इमम् जनाः

Analysis

Word Lemma Parse
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
इव इव pos=i
हि हि pos=i
वृत्रस्य वृत्र pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
परम परम pos=a,comp=y
संयुगे संयुग pos=n,g=n,c=7,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
अमन्यन्त मन् pos=v,p=3,n=p,l=lan
शत्रोः शत्रु pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
जनाः जन pos=n,g=m,c=1,n=p