Original

कृत्वा हि सुमहत्कर्म हत्वा भीष्ममुखान्कुरून् ।जयः प्राप्तो यशश्चाग्र्यं वैरं च प्रतियातितम् ।तदेवं विजयः प्राप्तः पुनः संशयितः कृतः ॥ १० ॥

Segmented

कृत्वा हि सु महत् कर्म हत्वा भीष्म-मुखान् कुरून् जयः प्राप्तो यशः च अग्र्यम् वैरम् च प्रतियातितम् तद् एवम् विजयः प्राप्तः पुनः संशयितः कृतः

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
हि हि pos=i
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
हत्वा हन् pos=vi
भीष्म भीष्म pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
कुरून् कुरु pos=n,g=m,c=2,n=p
जयः जय pos=n,g=m,c=1,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
यशः यशस् pos=n,g=n,c=1,n=s
pos=i
अग्र्यम् अग्र्य pos=a,g=n,c=1,n=s
वैरम् वैर pos=n,g=n,c=1,n=s
pos=i
प्रतियातितम् प्रतियातय् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
विजयः विजय pos=n,g=m,c=1,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
संशयितः संशी pos=va,g=m,c=1,n=s,f=part
कृतः कृ pos=va,g=m,c=1,n=s,f=part