Original

वैशंपायन उवाच ।ऋषिरासीन्महावीर्यः कुणिर्गार्ग्यो महायशाः ।स तप्त्वा विपुलं राजंस्तपो वै तपतां वरः ।मानसीं स सुतां सुभ्रूं समुत्पादितवान्विभुः ॥ ३ ॥

Segmented

वैशंपायन उवाच ऋषिः आसीत् महा-वीर्यः कुणिः गार्ग्यो महा-यशाः स तप्त्वा विपुलम् राजन् तपः वै तपताम् वरः मानसीम् स सुताम् सुभ्रूम् समुत्पादितवान् विभुः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ऋषिः ऋषि pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
कुणिः कुणि pos=n,g=m,c=1,n=s
गार्ग्यो गार्ग्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तप्त्वा तप् pos=vi
विपुलम् विपुल pos=a,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तपः तपस् pos=n,g=n,c=2,n=s
वै वै pos=i
तपताम् तप् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
मानसीम् मानस pos=a,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
सुताम् सुता pos=n,g=f,c=2,n=s
सुभ्रूम् सुभ्रू pos=n,g=f,c=2,n=s
समुत्पादितवान् समुत्पादय् pos=va,g=m,c=1,n=s,f=part
विभुः विभु pos=a,g=m,c=1,n=s