Original

आराध्य त्र्यम्बकं यत्नाद्व्रतैरुग्रैर्महातपाः ।अयोनिजायामुत्पन्नो द्रोणेनायोनिजेन यः ॥ १५ ॥

Segmented

आराध्य त्र्यम्बकम् यत्नाद् व्रतैः उग्रैः महा-तपाः अयोनिजायाम् उत्पन्नो द्रोणेन अयोनिजेन यः

Analysis

Word Lemma Parse
आराध्य आराधय् pos=vi
त्र्यम्बकम् त्र्यम्बक pos=n,g=m,c=2,n=s
यत्नाद् यत्न pos=n,g=m,c=5,n=s
व्रतैः व्रत pos=n,g=n,c=3,n=p
उग्रैः उग्र pos=a,g=n,c=3,n=p
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
अयोनिजायाम् अयोनिज pos=a,g=f,c=7,n=s
उत्पन्नो उत्पद् pos=va,g=m,c=1,n=s,f=part
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
अयोनिजेन अयोनिज pos=a,g=m,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s