Original

तत्राप्युपस्पृश्य महानुभावो वसूनि दत्त्वा च महाद्विजेभ्यः ।जगाम तीर्थं सुसमाहितात्मा शक्रस्य वृष्णिप्रवरस्तदानीम् ॥ ६१ ॥

Segmented

तत्र अपि उपस्पृश्य महा-अनुभावः वसूनि दत्त्वा च महा-द्विजेभ्यः जगाम तीर्थम् सु समाहित-आत्मा शक्रस्य वृष्णि-प्रवरः तदानीम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपि अपि pos=i
उपस्पृश्य उपस्पृश् pos=vi
महा महत् pos=a,comp=y
अनुभावः अनुभाव pos=n,g=m,c=1,n=s
वसूनि वसु pos=n,g=n,c=2,n=p
दत्त्वा दा pos=vi
pos=i
महा महत् pos=a,comp=y
द्विजेभ्यः द्विज pos=n,g=m,c=4,n=p
जगाम गम् pos=v,p=3,n=s,l=lit
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
सु सु pos=i
समाहित समाहित pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
वृष्णि वृष्णि pos=n,comp=y
प्रवरः प्रवर pos=a,g=m,c=1,n=s
तदानीम् तदानीम् pos=i