Original

तथास्मिन्देवदेवेश त्रिरात्रमुषितः शुचिः ।प्राप्नुयादुपवासेन फलं द्वादशवार्षिकम् ।एवमस्त्विति तां चोक्त्वा हरो यातस्तदा दिवम् ॥ ४५ ॥

Segmented

तथा अस्मिन् देवदेवेश त्रि-रात्रम् उषितः शुचिः प्राप्नुयाद् उपवासेन फलम् द्वादश-वार्षिकम् एवम् अस्तु इति ताम् च उक्त्वा हरो यातः तदा दिवम्

Analysis

Word Lemma Parse
तथा तथा pos=i
अस्मिन् इदम् pos=n,g=n,c=7,n=s
देवदेवेश देवदेवेश pos=n,g=m,c=8,n=s
त्रि त्रि pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
उषितः वस् pos=va,g=m,c=1,n=s,f=part
शुचिः शुचि pos=a,g=m,c=1,n=s
प्राप्नुयाद् प्राप् pos=v,p=3,n=s,l=vidhilin
उपवासेन उपवास pos=n,g=m,c=3,n=s
फलम् फल pos=n,g=n,c=2,n=s
द्वादश द्वादशन् pos=n,comp=y
वार्षिकम् वार्षिक pos=a,g=n,c=2,n=s
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
उक्त्वा वच् pos=vi
हरो हर pos=n,g=m,c=1,n=s
यातः या pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
दिवम् दिव् pos=n,g=,c=2,n=s