Original

यशस्विनीनां मातॄणां शृणु नामानि भारत ।याभिर्व्याप्तास्त्रयो लोकाः कल्याणीभिश्चराचराः ॥ २ ॥

Segmented

यशस्विनीनाम् मातॄणाम् शृणु नामानि भारत याभिः व्याप्ताः त्रयः लोकाः कल्याणीभिः चर-अचराः

Analysis

Word Lemma Parse
यशस्विनीनाम् यशस्विन् pos=a,g=f,c=6,n=p
मातॄणाम् मातृ pos=n,g=f,c=6,n=p
शृणु श्रु pos=v,p=2,n=s,l=lot
नामानि नामन् pos=n,g=n,c=2,n=p
भारत भारत pos=n,g=m,c=8,n=s
याभिः यद् pos=n,g=f,c=3,n=p
व्याप्ताः व्याप् pos=va,g=m,c=1,n=p,f=part
त्रयः त्रि pos=n,g=m,c=1,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
कल्याणीभिः कल्याण pos=a,g=f,c=3,n=p
चर चर pos=a,comp=y
अचराः अचर pos=a,g=m,c=1,n=p