Original

अथागम्य महाभागास्तत्तीर्थं दारुणं तदा ।दृष्ट्वा तोयं सरस्वत्याः शोणितेन परिप्लुतम् ।पीयमानं च रक्षोभिर्बहुभिर्नृपसत्तम ॥ ६ ॥

Segmented

अथ आगत्य महाभागाः तत् तीर्थम् दारुणम् तदा दृष्ट्वा तोयम् सरस्वत्याः शोणितेन परिप्लुतम् पीयमानम् च रक्षोभिः बहुभिः नृप-सत्तम

Analysis

Word Lemma Parse
अथ अथ pos=i
आगत्य आगम् pos=vi
महाभागाः महाभाग pos=a,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
दारुणम् दारुण pos=a,g=n,c=2,n=s
तदा तदा pos=i
दृष्ट्वा दृश् pos=vi
तोयम् तोय pos=n,g=n,c=2,n=s
सरस्वत्याः सरस्वती pos=n,g=f,c=6,n=s
शोणितेन शोणित pos=n,g=n,c=3,n=s
परिप्लुतम् परिप्लु pos=va,g=n,c=2,n=s,f=part
पीयमानम् पा pos=va,g=n,c=2,n=s,f=part
pos=i
रक्षोभिः रक्षस् pos=n,g=n,c=3,n=p
बहुभिः बहु pos=a,g=n,c=3,n=p
नृप नृप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s