Original

विश्वामित्रवसिष्ठौ तावहन्यहनि भारत ।स्पर्धां तपःकृतां तीव्रां चक्रतुस्तौ तपोधनौ ॥ ९ ॥

Segmented

विश्वामित्र-वसिष्ठौ तौ अहनि अहनि भारत स्पर्धाम् तपः-कृताम् तीव्राम् चक्रतुः तौ तपोधनौ

Analysis

Word Lemma Parse
विश्वामित्र विश्वामित्र pos=n,comp=y
वसिष्ठौ वसिष्ठ pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
अहनि अहर् pos=n,g=n,c=7,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s
स्पर्धाम् स्पर्धा pos=n,g=f,c=2,n=s
तपः तपस् pos=n,comp=y
कृताम् कृ pos=va,g=f,c=2,n=s,f=part
तीव्राम् तीव्र pos=a,g=f,c=2,n=s
चक्रतुः कृ pos=v,p=3,n=d,l=lit
तौ तद् pos=n,g=m,c=1,n=d
तपोधनौ तपोधन pos=a,g=m,c=1,n=d