Original

वैशंपायन उवाच ।विश्वामित्रस्य चैवर्षेर्वसिष्ठस्य च भारत ।भृशं वैरमभूद्राजंस्तपःस्पर्धाकृतं महत् ॥ ३ ॥

Segmented

वैशंपायन उवाच विश्वामित्रस्य च एव ऋषेः वसिष्ठस्य च भारत भृशम् वैरम् अभूद् राजन् तपः-स्पर्धा-कृतम् महत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विश्वामित्रस्य विश्वामित्र pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
ऋषेः ऋषि pos=n,g=m,c=6,n=s
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
भृशम् भृश pos=a,g=n,c=1,n=s
वैरम् वैर pos=n,g=n,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
राजन् राजन् pos=n,g=m,c=8,n=s
तपः तपस् pos=n,comp=y
स्पर्धा स्पर्धा pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
महत् महत् pos=a,g=n,c=1,n=s