Original

त्राह्यात्मानं सरिच्छ्रेष्ठे वह मां शीघ्रगामिनी ।विश्वामित्रः शपेद्धि त्वां मा कृथास्त्वं विचारणाम् ॥ २३ ॥

Segmented

त्राहि आत्मानम् सरित् श्रेष्ठे वह माम् शीघ्र-गामिनी विश्वामित्रः शपेत् हि त्वाम् मा कृथाः त्वम् विचारणाम्

Analysis

Word Lemma Parse
त्राहि त्रा pos=v,p=2,n=s,l=lot
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
सरित् सरित् pos=n,g=f,c=8,n=s
श्रेष्ठे श्रेष्ठ pos=a,g=f,c=8,n=s
वह वह् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
शीघ्र शीघ्र pos=a,comp=y
गामिनी गामिन् pos=a,g=f,c=1,n=s
विश्वामित्रः विश्वामित्र pos=n,g=m,c=1,n=s
शपेत् शप् pos=v,p=3,n=s,l=vidhilin
हि हि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
मा मा pos=i
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug
त्वम् त्वद् pos=n,g=,c=1,n=s
विचारणाम् विचारणा pos=n,g=f,c=2,n=s