Original

पुण्याहघोषैर्विमलैर्वेदानां निनदैस्तथा ।देवेषु चैव व्यग्रेषु तस्मिन्यज्ञविधौ तदा ॥ ६ ॥

Segmented

पुण्य-अह-घोषैः विमलैः वेदानाम् निनदैः तथा देवेषु च एव व्यग्रेषु तस्मिन् यज्ञ-विधौ तदा

Analysis

Word Lemma Parse
पुण्य पुण्य pos=a,comp=y
अह अह pos=n,comp=y
घोषैः घोष pos=n,g=m,c=3,n=p
विमलैः विमल pos=a,g=m,c=3,n=p
वेदानाम् वेद pos=n,g=m,c=6,n=p
निनदैः निनद pos=n,g=m,c=3,n=p
तथा तथा pos=i
देवेषु देव pos=n,g=m,c=7,n=p
pos=i
एव एव pos=i
व्यग्रेषु व्यग्र pos=a,g=m,c=7,n=p
तस्मिन् तद् pos=n,g=m,c=7,n=s
यज्ञ यज्ञ pos=n,comp=y
विधौ विधि pos=n,g=m,c=7,n=s
तदा तदा pos=i