Original

अद्य वः सरथान्साश्वानशस्त्रो विरथोऽपि सन् ।नक्षत्राणीव सर्वाणि सविता रात्रिसंक्षये ।तेजसा नाशयिष्यामि स्थिरीभवत पाण्डवाः ॥ १७ ॥

Segmented

अद्य वः स रथान् स अश्वान् अशस्त्रो विरथो ऽपि सन् नक्षत्राणि इव सर्वाणि सविता रात्रि-संक्षये तेजसा नाशयिष्यामि स्थिरीभवत पाण्डवाः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
वः त्वद् pos=n,g=,c=2,n=p
pos=i
रथान् रथ pos=n,g=m,c=2,n=p
pos=i
अश्वान् अश्व pos=n,g=m,c=2,n=p
अशस्त्रो अशस्त्र pos=a,g=m,c=1,n=s
विरथो विरथ pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
सन् अस् pos=va,g=m,c=1,n=s,f=part
नक्षत्राणि नक्षत्र pos=n,g=n,c=2,n=p
इव इव pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
सविता सवितृ pos=n,g=m,c=1,n=s
रात्रि रात्रि pos=n,comp=y
संक्षये संक्षय pos=n,g=m,c=7,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
नाशयिष्यामि नाशय् pos=v,p=1,n=s,l=lrt
स्थिरीभवत स्थिरीभू pos=v,p=2,n=p,l=lot
पाण्डवाः पाण्डव pos=n,g=m,c=8,n=p